Journal: Int. J Adv. Std. & Growth Eval.
Mail: allstudy.paper@gmail.com
Contact: +91-9650866419
Impact factor (QJIF): 8.4 E-ISSN: 2583-6528
INTERNATIONAL JOURNAL OF ADVANCE STUDIES AND GROWTH EVALUATION
VOL.: 4 ISSUE.: 7(July 2025)
Author(s): हिरण्मयदत्त
Abstract:
चतुर्दश ईशवीयाब्दान्तेऽद्वैतवेदान्तेऽव्ययाश्रमशिष्येणाद्वैतपण्डितेन भगवता रामाद्वयाचार्येण वेदान्तकौमुदीनामैकः प्रकरणग्रन्थो विरच्यते ।ग्रन्थोऽयं अथातो ब्रह्मजिज्ञासा,जन्माद्यस्य यतः,शास्त्रयोनित्वात्, तत्तु समन्वयादिति श्रीकृष्णद्वैपायणेन वेदव्यासेन सूत्रितं चतुःसूत्रीमाश्रित्य शारीरकमीमांसाभाष्यस्य विचारशैलीमनुसृत्य विवरणप्रस्थानमवलम्ब्याद्वैतवेदान्तस्य सम्पूर्णमेव तत्वं पर्यालोचितं व्याख्यातं मीमांसीतञ्च ।रामाद्वयाचार्येण तदीयमद्वैततत्वं प्रतिस्थापनार्थं समस्तं द्वैततत्वं निराकरणार्थञ्चास्मिन् ग्रन्थे विमुक्तात्मकृता इष्टसिद्धिः, सुरेश्वराचार्यप्रणीतं बृहदारण्यकवार्त्तिकं, मण्डनमिश्रकृतं बिधिविवेकं, वाचस्पतिमिश्रकृता भामती अत्रभवदीयानाञ्च विचारशैल्योऽनुश्रियन्ते। पुनश्च रामाद्वयाचार्यात् परवर्तिनि कालेऽपि अप्प्ययदीक्षितादयोऽद्वैतवादिनस्तदीयेषु स्वस्वग्रन्थेषु वेदान्तकौमुद्याः विचारशैलीमवलम्बायन्ते, यथा च अप्प्ययदीक्षितप्रणीते सिद्धान्तलेशसंग्रहे बहुत्र वेदान्तकैमुद्या उक्तयः परिलक्ष्यन्ते। तथा च सप्तदश ईशवीयाब्दे धर्मराजाध्वरीन्द्रेनापि रामाद्वयाचार्यकृतां वेदान्तकौमुदीमाधारीकृत्य नव्यन्यायस्य सूक्ष्मदृष्ट्या वादान्तपरिभाषानामा ग्रन्थो विरचितः ।वेदान्तसमाजे सर्वत्रैव वेदान्तपरिभाषेति ग्रन्थः सर्वैः समाद्रियते ।तथापि तु तस्य मातृस्थानीयो ग्रन्थो वेदान्तकौमुदी इदानीमपि कैश्चिदपि न समीक्ष्यते,एतेन च न विद्यते ग्रन्थस्यास्य किमपि समीक्षणात्मकं संस्करणम् ।केवलन्तु स्वामिसुब्रह्मण्यशास्त्रिमहोदयेन १९५५ ईशवीयाब्दे मद्रराजविश्वविद्यालयतः एकामेव मातृकामाश्रित्य वेदान्तकौमुद्याः संस्करणमेकं प्रकाशितम्। एकामेव मातृकामाश्रितत्वात् तस्मिन् ग्रन्थे बहुत्रासम्पूर्णाः पाठाः विराजन्त इत्येवं स्थिते ग्रन्थस्यास्य समीक्षितेन पाठेन प्रयोजनमपरिहार्यते। मदीयेऽस्मिन् शोधपत्रे वेदान्तकौमुदी इत्यस्य ग्रन्थस्य प्रयोजनं पर्यालोच्य तत्रस्थस्य ब्रह्मलक्षणं यथा विचार्यते तथैव समीक्षितेनाध्ययनेन सह प्रदीयते ।
keywords:
Pages: 39-49 | 2 View | 0 Download
How to Cite this Article:
हिरण्मयदत्त. वेदान्तकौमुदीग्रन्थे द्वितीयेऽध्याये “जन्माद्यस्य यतः” इत्यस्य सूत्रस्य व्याख्यातुकामेण रामाद्वयाचार्येण ब्रह्म- लक्षणप्रसङ्गस्य पर्य्यालोचनं समीक्षणात्मकमध्ययनञ्च. Int. J Adv. Std. & Growth Eval. 2025; 4(7):39-49,